मम्मटाचार्यानुसारेण काव्यप्रयोजनं

 मम्मटाचार्यानुसारेण काव्यप्रयोजनं 

 काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।

सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे ॥ 

अर्थात् काव्यं यशः प्राप्तये धनार्जनाय व्यवहारज्ञानाय-अनिष्टनिवारणाय तत्क्षणमेव परमानन्दप्राप्तये प्रियतमावत् उपदेशदानाय च भवति ।

आचार्य मम्मटेन काव्यप्रयोजनविषयकविभिन्नमता समन्वितरूपं प्रस्तुतं कृतमस्ति| अस्मात् पूर्वमपि काव्यस्य प्रयोजनेषु विभिन्नैः विद्वद्भिः विचारः कृतः । येषु केषाञ्चन प्रमुखाचार्याणां विचाराः अधोलिखिताः सन्ति

भरतमुनिः- वेदविद्येतिहासानामाख्यानपरिकल्पनम् । 

विनोदजननं लोके नाट्यमेतद् भविष्यति ॥ 

दुःखार्त्तानां श्रमार्त्तानां शोकार्त्तानां तपस्विनाम् । 

विश्रामजननं लोके नाट्यमेतद् भविष्यति ॥ 

भामहः धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । 

  करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥ 

वामनः काव्यं सद् दृष्टादृष्टार्थं प्रीति कीर्ति हेतुत्वात् ।

आनन्दवर्धनः तेन ब्रूमः सहृदयमनः प्रीतये तत्सवरूपम् । 

आचार्यमम्मटेन पूर्ववर्तिनां आचार्याणां मतानां समन्वयकं रूपं प्रस्तुतीकृतम्। तस्यानुसारेण काव्यस्य षड्प्रयोजनानि सन्ति । ते यथा-

१. काव्यं यशसे भवति अर्थात् काव्यनिर्माणेन कवि: यशः प्राप्तुं शक्नोति । तस्य कीर्तिः प्रसरति| उदाहरणतः कविकुलगुरुकालिदासेन काव्यरचनाद्वारा एव कीर्तिः अर्जिता। यद्यपि तेन महाभागेन धनमपि अर्जितं, परं मुख्यतः काव्येन तस्य कीर्तिः यशो वा एवं प्रसारिता जगति|

२. काव्यं अर्थकृते भवति अर्थात् काव्यरचनाद्वारा धनागमोऽपि भवति । पुरा कविभि: काव्येन महद्धनार्जनं कृतम् अद्यापि च क्रियते। लोकविश्रुतम् अस्ति यत् धावकनामककविना महाराज हर्षाय 'रत्नावली' नामक नाटिकाया: लेखनं कृत्वा पुष्कलं धनं प्राप्तीकृतम् | 

३. काव्यं व्यवहारविंदे भवति अर्थात् काव्यं व्यवहरिज्ञानायोपि क्रियते। रामायण-महाभारतादीनां महाकाव्यानाम् अनुशीलनेन सहृदयाः न केवलं राज्ञा सह वरन् जगात सवः सह व्यवहारस्य ज्ञान प्राप्नुवन्ति। एतज्ज्ञानं न सुलभन् इतिहासादिभिः । 

४. काव्यं शिवेतरक्षतये भवति अर्थात् काव्येन अनिष्टमपि नश्यति। यथा कुष्ठरोगेण आक्रान्तः मयूरकविः सूर्यस्य स्तुतिं कृत्वा 'सूर्यशतकम्' इति काव्यं रचयित्वा निरोगतां प्राप्तवान् ।

५. काव्यं सद्यः परनिर्वृत्तये भवति अर्थात् काव्येन तत्क्षणमेव परमानन्दः जायते । काव्यं पठनेन सह एव अन्येषां ज्ञेयवस्तूनां ज्ञानात् शून्यं ब्रह्मास्वादनहोदरं रसास्वादनं प्राप्यते। इदमेव प्रयोजनं मुख्यतमं विद्यते ।

६. काव्यं कान्ता सम्मिततयोपदेशयुजे भवति अर्थात् काव्यं प्रियतमावत् सरसतया उपदेशं ददातिं । तत् शब्द प्रधानवेदादिभ्यः अर्थ प्रधान पुराणेतिहासादिभ्यश्च विलक्षणतया सरसताम् उत्पाद्य उपदेशं ददाति अर्थात् मानवम् उचितकार्येषु प्रवर्त्तनाय प्रेरयति |

काव्यप्रयोजनविषये महामहोपाध्यायायेन गङ्गानाथ झा महोदयेन उद्धृतं कृतम्- “The poet does no: merely show the way, but giveth so sweet a prospect into the way, as will entice any man to inter into it.” एवं मम्मटाचार्येण प्रतिपादितानि काव्य-प्रयोजनानि अत्यन्तव्यापकानि सन्ति । एतेषु उत्तममध्यमाधमानां सर्वेषां प्रकाराणां काव्यप्रयोजनानि समाविशन्ति इति ।

Comments