Posts

मम्मटाचार्यानुसारेण काव्यप्रयोजनं

  मम्मटाचार्यानुसारेण काव्यप्रयोजनं   काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे ॥  अर्थात् काव्यं यशः प्राप्तये धनार्जनाय व्यवहारज्ञानाय-अनिष्टनिवारणाय तत्क्षणमेव परमानन्दप्राप्तये प्रियतमावत् उपदेशदानाय च भवति । आचार्य मम्मटेन काव्यप्रयोजनविषयकविभिन्नमता समन्वितरूपं प्रस्तुतं कृतमस्ति| अस्मात् पूर्वमपि काव्यस्य प्रयोजनेषु विभिन्नैः विद्वद्भिः विचारः कृतः । येषु केषाञ्चन प्रमुखाचार्याणां विचाराः अधोलिखिताः सन्ति भरतमुनिः- वेदविद्येतिहासानामाख्यानपरिकल्पनम् ।  विनोदजननं लोके नाट्यमेतद् भविष्यति ॥  दुःखार्त्तानां श्रमार्त्तानां शोकार्त्तानां तपस्विनाम् ।  विश्रामजननं लोके नाट्यमेतद् भविष्यति ॥  भामहः धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।    करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥  वामनः काव्यं सद् दृष्टादृष्टार्थं प्रीति कीर्ति हेतुत्वात् । आनन्दवर्धनः तेन ब्रूमः सहृदयमनः प्रीतये तत्सवरूपम् ।  आचार्यमम्मटेन पूर्ववर्तिनां आचार्याणां मतानां समन्वयकं रूपं प्रस्तुतीकृतम्। तस्यानुसारेण काव्यस्य षड्प्रयोजनानि सन्ति । ते यथा- १. काव्यं